|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.8. अध्यायः 008
अश्वमेधपर्व ॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Topics
संवर्तेन मरुत्तंप्रति हिमवत्संनिहिते मुञ्जवतिगिरौ महादेवस्य निवासकथनपूर्वकं स्वोक्तनामशतकेन स्तुत्या तत्प्रसादनेन यागाय तन्नत्यबहुसुवर्णहरणचोदना॥ 1 ॥ संवर्तेनि तदाहरणेन शिल्पिभिर्यागोपयोगिभाण्डनिर्मापणम्॥ 2 ॥ इन्द्रेण तच्छ्रवणनिर्विण्णस्य बृहस्पतेः समीपं प्रत्यागमनम्॥ 3 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
संवर्त उवाच।
गिरेर्हिमवतः पृष्ठे मुञ्जवान्नाम पर्वतः।
तप्यते यत्र भगवांस्तपो नित्यमुपापतिः॥ 14-8-1(92547)
वनस्पतीनां मूलेषु शृङ्गेषु विषमेषु च।
गुहासु शैलराजस्य यथाकामं यथासुखम्॥ 14-8-2(92548)
उमासहायो भगवान्यत्र नित्यं महेश्वरः।
आस्ते शूली महातेजा नानाभूतगणावृतः॥ 14-8-3(92549)
तत्र रुद्राश्च साध्याश्च विश्वेऽथ वसवस्तथा।
यमश्च वरुणश्चैव कुबेरश्च सहानुगः॥ 14-8-4(92550)
भूतानि च पिशाचाश्च नासत्यावपि चाश्विनौ।
गन्धऱ्वाप्सरसश्चैव यक्षा देवर्षयस्तथा॥ 14-8-5(92551)
आदित्या मरुतश्चैव यातुधानाश्च सर्वशः।
उपासन्ते महात्मानं बहुरूपमुपापतिम्॥ 14-8-6(92552)
रमते भगवांस्तत्र कुबेरानुचरैः सह।
विकृतैर्विकृताकारैः क्रीडद्भिः पृथिवीपते॥ 14-8-7(92553)
श्रिया ज्वलन्दृश्यते वै बालादित्यसमद्युतिः।
न रूपं शक्यते तस्य संस्थानं वा कदाचन।
निर्देष्टुं प्राणिभिः कैश्चित्प्राकृतैर्मांसलोचनैः॥ 14-8-8(92554)
नोष्णं न शिशिरं तत्र न वायुर्न च भास्करः।
न जारा क्षुत्पिपासे वा न मृत्युर्न भयं नृप॥ 14-8-9(92555)
तस्य शैलस्य पार्श्वेषु सर्वेषु जयतांवर।
धातवो जातरूपस्य रश्मयः सवितुर्यथा॥ 14-8-10(92556)
रक्ष्यन्ते ते कुबेरस्य सहायैरुद्यतायुधैः।
चिकीर्षद्भिः प्रियं राजन्कुबेरस्य महात्मनः॥ 14-8-11(92557)
`तत्र गत्वा समन्वास्य महायोगेश्वरं शिवम्।
कुरु प्रणामं राजर्षे भक्त्या परमया यतुः॥' 14-8-12(92558)
तस्मै भगवते कृत्वा नमः शर्वाय वेधसे।
`एभिस्तं नामभिर्देवं सर्वविद्याधरं स्तुहि॥' 14-8-13(92559)
रुद्राय शितिकण्ठाय सुरूपाय सुवर्चसे।
कपर्दिने करालाय हर्यक्ष्णे वरदाय च॥ 14-8-14(92560)
त्र्यक्ष्णे पूष्णो दन्तभिदे वामनाय शिवाय च।
याम्यायाव्यक्तरूपाय सद्वृत्ते शङ्कराय च॥ 14-8-15(92561)
क्षेम्याय हरिकेशाय स्थाणवे पुरुषाय च।
हरिनेत्राय मुण्डाय क्रुद्धायोत्तरणाय च॥ 14-8-16(92562)
भास्वराय सुतीर्थाय देवदेवाय रंहसे।
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे॥ 14-8-17(92563)
गिरिशाय प्राशान्ताय यतये चीरवाससे।
बिल्वदण्डाय सिद्धाय सर्वदण्डधराय च॥ 14-8-18(92564)
मृगव्याधाय महते धन्विनेऽथ भवाय च।
वराय सोमवक्त्राय सिद्धमन्त्राय चक्षुषे॥ 14-8-19(92565)
हिरण्यबाहवे राजन्नुग्राय पतये दिशाम्।
लेलिहानाय गोष्ठाय सिद्धमन्त्राय वृष्णये॥ 14-8-20(92566)
पशूनां पतये चैव भूतानां पतये नमः।
वृषाय मातृभक्ताय सेनान्ये मध्यमाय च॥ 14-8-21(92567)
`अभिवक्त्राय पतये सर्वदेवमयाय च।'
स्रुवहस्ताय पतये धन्विने भार्गवाय च।
अजाय कृष्णनेत्राय विरूपाक्षाय चैव ह॥ 14-8-22(92568)
तीक्ष्णदंष्ट्राय तीक्ष्णाय वैश्वानरमुखाय च।
महात्मने चानङ्गाय सर्वाय पतये विशाम्॥ 14-8-23(92569)
`तथा रुद्राय पतये पृथवे कृत्तिवाससे।'
विलोहिताय दीप्ताय दीप्ताक्षाय महौजसे।
वसुरेतःसुवपुषे पृथवे कृत्तिवाससे॥ 14-8-24(92570)
कपालमालिने चैव सुवर्णमुकुटाय च।
महादेवाय कृष्णाय त्र्यम्बकायानघाय च॥ 14-8-25(92571)
क्रोधनायानृशंसाय मृदवे बाहुशालिने।
दण्डिने तप्ततपसे तथैवाक्रूरकर्मणे॥ 14-8-26(92572)
सहस्रशिरसे चैव सहस्रचरणाय च।
नमः स्वधास्वरूपाय बहुरूपाय दंष्ट्रिणे॥ 14-8-27(92573)
पिनाकिनं महादेवं महाभोगिनमव्ययम्।
त्रिशूलहस्तं वरदं त्र्यम्बकं भुवनेश्वरम्॥ 14-8-28(92574)
त्रिपुरघ्नं त्रिनयनं त्रिलोकेशं महौजसम्।
प्रभवं सर्वभूतानां दातारं धरणीधरम्॥ 14-8-29(92575)
ईशानं शङ्करं सर्वं शिवं विश्वेश्वरं भवम्।
उमापतिं पशुपतिं विश्वरूपं महेश्वरम्॥ 14-8-30(92576)
विरूपाक्षं दशभुजं विष्यन्दं गोवृषध्वजम्।
उग्रं स्थाणुं शिवं रौद्रं शर्वं गौरीशमीश्वरम्॥ 14-8-31(92577)
शितिकण्ठमजं शुक्रं पृथुं पृथुहरं वरम्।
विश्वरूपं विरूपाक्षं बहुरूपमुपापतिम्॥ 14-8-32(92578)
प्रणम्य शिरसा देवमनङ्गाङ्गहरं हरम्।
शरण्यं शरणं याहि महादेवं चतुर्मुखम्॥ 14-8-33(92579)
`विरोचमानं वपुषा दिव्याभरणभूषितम्।
अनाद्यन्तमजं शंभुं सर्वव्यापिनमीश्वरम्॥ 14-8-34(92580)
निस्त्रैगुण्यं निरुद्वेगं निर्मलं निधिमोजसाम्।
प्रणम्य प्राञ्जलिः शर्वं प्रयामि शरणं हरम्॥ 14-8-35(92581)
सम्मान्यं निश्चलं नित्यमकारुण्यमलेपनम्।
अध्यात्मवेदमासाद्य प्रयामि शरणं मुहुः॥ 14-8-36(92582)
यस्य नित्यं विदुः स्थानं मोक्षमध्यात्मचिन्तकाः।
योगीशं तत्वमार्गस्थाः कैवल्यं पदमक्षरम्॥ 14-8-37(92583)
यं विदुः सङ्गिनं मुक्ताः सामान्यं समदर्शिनः।
तं प्रपद्ये जगद्योनिमयोनिं निर्गुणात्मकम्॥ 14-8-38(92584)
असृजद्यस्तु भूतादीन्सप्त लोकान्सनातनान्।
स्थितः सत्योपरि स्थाणुस्तं प्रपद्ये सनातनम्॥ 14-8-39(92585)
भक्तानां सुलभं तं हि दुर्लभं दूरपातिनाम्।
अदूरस्थममुं देवं प्रकृतेः परतः स्थितम्॥ 14-8-40(92586)
नमामि सर्वलोकस्थं व्रजामि शरणं शिवम्।'
एवं कृत्वा नमस्तस्मै महादेवाय रंहसे।
महात्मने क्षितिपते तत्सुवर्णमवाप्स्यसि॥ 14-8-41(92587)
`लभन्ते गाणपत्यं च तदेकाग्रा हि मानवाः।
किं पुनः स्वर्णिभाण्डानि तस्मात्त्वं गच्छ मा चिरं॥ 14-8-42(92588)
महत्तरं हि ते लाभं हस्त्यश्वोष्ट्रादिभिः सह।'
सुवर्णमाहरिष्यन्तस्तत्र गच्छन्तु ते नराः॥ 14-8-43(92589)
व्यास उवाच। 14-8-44x(7754)
इत्युक्तः स वचस्तस्य चक्रे कारन्धमात्मजः।
`गङ्गाधरं नमस्कृत्य लब्धवान्धनमुत्तमम्॥ 14-8-44(92590)
कुबेर इव तत्प्राप्य महादेवप्रसादतः।'
ततोऽतिमानुषं सर्वं चक्रे यज्ञस्य संविधिम्॥ 14-8-45(92591)
सौवर्णानि च भाण्डानि संचक्रुस्तत्र शिल्पिनः।
`शालाश्च सर्वसम्भारांस्तत्र संवर्तशासनात्॥' 14-8-46(92592)
बृहस्पतिस्तु तां श्रुत्वा मरुत्तस्य महीपतेः।
समृद्धिमति देवेभ्यः सन्तापमकरोद्भृशम्॥ 14-8-47(92593)
सन्तप्यमानो वैवर्ण्यं कृशत्वं चागमत्परम्।
भविष्यति हि मे शत्रुः संवर्तो वसुमानिति॥ 14-8-48(92594)
तं श्रुत्वा भृशसंतप्तं देवराजो बृहस्पतिम्।
अभिगम्यामरवृतः प्रोवाचेदं वचस्तदा॥ ॥ 14-8-49(92595)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि अष्टमोऽध्यायः॥ 8 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|